________________
42
सव्याख्यसर्वार्थसिद्धिसाहततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः इति । तदिह प्रतिसन्धेयं ।
आनन्ददायिनी भ्रान्तयः । सर्वेषामपि स्वाज्ञाताकारस्य पदार्थेषु संभवात् । यदातु काष्ठां प्रामोति तदा तस्मिन् पदार्थे तेनाज्ञाताकाराभावात् आकाराज्ञानहेतुकभ्रमासंभवः इति । तत्र पदार्थाभ्यासो हि बुद्ध्यत्क. पहेतुर्भवति । अभ्यासन जायमानोत्कर्षपरम्परा. काष्ठां गच्छन्ती दृष्टा । यथा पुटपाकोत्कर्षेण जायमाना स्वर्णोत्कर्षपरम्परा दशवर्णे । पदार्थाभ्यासोऽभ्यासत्वात्काष्ठाप्राप्तिहेतुः इति । ननु लङ्घनाभ्यासेऽप्यभ्यासत्वं वर्तते ; न स काष्ठाप्राप्तिहेतुर्भवतीति, मैवं ; तत्रोत्कर्ष जनयन् लङ्घनाभ्यासः पूर्वपूर्वप्रयत्नाधिकप्रयत्नापेक्ष एवोत्कर्ष जनयति । तथाच त्रैलोक्यलङ्घनहेतुभूतप्रयत्नस्यासंभवात्तत्रोत्कर्षकाष्ठाप्राप्तिर्नास्ति । अयं चाभ्यासोऽधिकप्रयत्नापेक्ष एवोत्कर्षहेतुः पुटपाकाभ्यासवत् । तस्मादुत्कर्षकाष्ठाप्राप्तिहेतुर्भवतीति । एतदेवाभिप्रेत्योक्तं--अयत्नवत्त्वेऽपि बुद्धेः इति । पूर्वप्रयत्नाधिकप्रयत्नसापेक्षेणाभ्यासेन जायमानतया उत्कर्षकाष्ठां प्राप्तायाः अत एव यथार्थविषयाया बुद्धेः तत्पक्षपाततो बाधकत्वमुपपद्यते इति। अस्मिन् पक्षद्वयेऽपि धर्मिस्वरूपस्य धर्मस्य चाङ्गीकाराद्विरोध इति भावः । अत्र बुद्धेस्सत्पक्षपाततः तत्पक्षपातत इति पाठद्वयं बोध्यं । केचिदेवं व्याचख्युः--निष्कलकप्रत्यक्षसिद्धस्य युक्तिभिर्न बाध इति वयाङ्गीकारात् तन्नयायो धर्मविशिष्टधर्मिण्यप्यस्त्वित्यत्राह-यत्तदन्यत्रेति । उपप्लवो-बाधः। प्रत्यक्षबाधाभावादनुपप्लवभूतः स चासावर्थश्च तथोक्तः । स्वभावः----स्वरूपं । विपर्ययैः-यौक्तिकबाधैः प्रत्यक्षबुद्धेरबाधितार्थविषयकत्वस्यौत्सर्गिकत्वादित्यर्थ इति । तदिहेति-एकास्मन् धार्माण प्रान्त्यभ्रान्त्यनुगत प्रामाणिकधर्माङ्गीकारेण ह्ययं बाध्यबाधकभावसमर्थनार्थो वा काष्ठाप्राप्तिसमर्थनार्थो वा अन्थ आरब्ध इति न विस्मर्तव्यमित्यर्थः। ..