SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 44 सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलाप [जडद्रव्य सर्वार्थसिद्धिः विशदग्रहणं न तु न्यूनाधिकदर्शनमात्रं ; तथा सति घटपटदर्शने घटमात्रदर्शने च विशदाविशदव्यवहारप्रसङ्गात् । नचात्र रूपमेवाविशदं विशदं च भाति ; पतिशङ्खादिभ्रमे रूपान्तरवत्तया भातस्यापि तथा प्रत्यभिज्ञानात् । नापि परिमाणं ; आनन्ददायिनी धर्मिसिद्धिरिति भावः । ननु विशदाविशदत्वमधिकन्यूनविषयत्वमेव, न त्वेकधर्मिणि अधिकन्यूनधर्मविषयत्वं । तथाच न धर्मिसिद्धिरित्यत्राह1 * न तु न्यूनाधिकेत्यादिना। ननु रूपमेव दूरादूरयोरविशदं विशद च भासतां ; न(च)तु रूप एवाल्पबहुधर्मप्रसङ्गः ; तदाऽपि तदाश्रयासिद्धेः इत्यत्राह-नचेति । तथा च पीतशङ्खभ्रमस्थले पूर्व श्वैत्यस्य ग्रहणादिदानी पीतिमग्रहणात्तयोरभिन्नत्वात् तद्विषयतया प्रत्यभिज्ञाया अनिर्वाहादुभयानुयायिधर्मिसिद्धिरिति भावः । परिमाणस्य द्वन्द्रियग्राह्यतया प्रत्यभिज्ञाविषयत्वमस्त्वित्यत्राह -------- नापीति । भावप्रकाशः 1 * न तु न्यूनाधिकदर्शनमात्रमिति-अधिकसंख्यवस्तुदर्शनं विशदं ; न्यूनसंख्यवस्तुदर्शनमाविशदमित्यपि न संभवतीत्यर्थः । एतेन निरन्तराधिकवस्तुदर्शनं विशदमित्युक्तावपि न निस्तार इति सिद्धं । अधिकावयवानां दर्शनेऽपि तद्धर्माणामग्रहे न्यूनावयवानां ग्रहेऽपि अधिकतद्धर्मग्रहेच विशदाविशदव्यहारप्रसङ्गात् । बौद्धमते एकैकावयवस्य स्वलक्षणत्वेन परमार्थत्वेन अवयवसन्तानस्य विशदाविशदज्ञानविषयवाङ्गीकारे परमार्थत्वप्रसङ्गात् । सिद्धान्ते विलक्षणसंयोगविशिष्टानामेवावयविप्रत्ययविषयताया व्यवस्थापयिष्यमाणत्वात् । तत्रापि नानाध
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy