________________
सरः
द्रव्यसाधनम्
सर्वार्थसिद्धिः नचात्रान्यश्शङ्खस्तदानीमुत्पन्नः नापि शङ्खरूपोऽयं पित्तविवर्तः; स्पर्शनेन स एवायं शङ्क इति गृहीतेः। एवं स्पर्शादावपि । यदि चासौ हेतुरङ्गीक्रियते ; * किमपराद्धम्सहोपलम्भनियमादभेदो नीलतद्धियोः ॥
आनन्ददायिनी यरूपस्यान्यत्रारोपस्थल इत्यर्थः । ननु पीतशङ्खादिभ्रमे पीतिमगुणविशिष्ट एवान्यश्शङ्खस्तदानमुित्पद्यते ; क्षणिकत्वाङ्गीकारेण पूर्वशङ्खस्य नाशात् । यद्वा—पित्त(पीत)द्रव्यस्यैवायं शङ्खाभासरूपेण परिणामः । तथाच सिद्ध एव सहोपलम्भनियमः तत्राह--नचेति । तत्र हेतुमाहस्पर्शनेनेति-न क्षणिकत्वेन शङ्खान्तरोत्पादनं युक्तं; स एवायमिति प्रत्यभिज्ञानुपपत्तेः नापि पित्तविवर्तः ; त्वागन्द्रियविषयत्वानुपपत्तेरित्यर्थः । एवमिति–जले औष्ण्यभ्रमकाले तदीयशैत्यानुपलम्भात् उष्णस्पर्शस्याश्रयं विनोपलम्भाच्चेत्यर्थः । आदिशब्देन रसादयो गृह्यन्ते । सहोपलम्भनियमस्य व्याप्तिग्रहस्थानाभावान्न साधकत्वं तथाऽपि साधकत्वे योगाचारमतप्रसङ्ग इत्याह—यदि चासाविति । प्रत्युत सहभावस्य
भावप्रकाशः स्फुटमेतत् । किंच एकशब्दानुविद्धप्रत्ययो यदि साधकत्वेन संमतः; तदा नैयायिकाभिमताया जातेरङ्गीकारापत्तिः इत्यादिकमन्यत्र स्पष्टम् ॥ तत्वसंग्रहे-लोहितः स्फटिकः इति ज्ञानविचारे (५६६)- ......
. शुक्लादयस्तथा वेद्या इत्येवं चापि संभवेत् । ...... ....... तस्माद्धान्तमिदं ज्ञानं कम्बुपीतादिबुद्धिवत् ।। .. . इत्युक्तदिशा पीतश्शङ्ख इति भ्रमे शुक्लरूपमेव विषय इत्यङ्गीकारेऽप्याह
1* किमपराद्धमित्यादि-अयमाशयः-तत्वसंग्रहटीकायां तत्र