________________
38
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
___[जडद्रव्य
सर्वार्थसिद्धिः नहि रूपमिदमिति पटादीन् कश्चित् क्वचित्प्रत्यति । किं तु तद्वदिति । सहोपलम्भनियमादि 1* हेतुचतुष्टयं च निरसिप्यामहे । * नच रूपादेर्धर्मिणश्च सहोपलम्भनियमः; पीतशङ्खादिभ्रमे रूपमन्तरेण रूपिणः तमन्तरेण तस्य चोपलब्धेः।
आनन्ददायिनी यति-नहीति । ननु वैपरीत्यप्रसङ्गो नोपपद्यते---सहोपलम्भनियम मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यकशब्दानुविद्धप्रत्यय प्रथमपिण्डग्रहणकालिकाभेदग्रहणरूपाभेदोपलम्भहेतुचतुष्टयस्य सत्त्वादित्यत्राह-सहोपलम्भनियमादीति । निरसिष्यामह इति । भेदाभेदनिरसनावसरे इत्यर्थः । असिद्धश्चायं प्रथमो हेतुरित्याहनचेति । रूपमन्तरेणेति-स्वकीयरूपमन्तरेणेत्यर्थः । धर्मिज्ञानस्याप्यारोप हेतुत्वादिति भावः । तमन्तरणेति---शङ्खमन्तरेण तदी
भावप्रकाशः . 1 * हे तुचतुष्टयमित्यादि-बुद्धिसरे (२०) अभेदसाधकत्वं सहोपलम्भनियमस्य ; तत्रैव (३२) अभेदावगाहित्वं निर्विकल्पकप्रत्ययस्य ; तत्रैव (९४) धर्मधर्म्यभेदसाधकत्वं मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यस्य निरसिष्यते इति विवेकः । 2 * नच रूपादेरित्यादिअत्र न्यायसिद्धाञ्जने (११) ' नचसहोपलम्भनियमान्नीलतदाधारादेरभेदः एकसामग्रीवेद्यत्वनियमात्तदुपपत्तेः । सहत्वतन्नियमाभ्यां भेदस्यैव स्थिरीकरणेन व्याघातात् । समस्य च सहोपलम्भनियमस्य शङ्खश्चैत्यादावसिद्धेः । असमस्यापि गन्धादौ । भास्वराध्वान्ताभास्वररूपाभ्यामनेकान्तत्वाच' इत्यन्ता सूक्तिरपि भाव्या। निर्विकल्पके शब्दानुवेधस्य बौद्धैरनङ्गीकारात् विकल्पस्य विपर्ययत्वेन च न ततोऽभेदसिद्धिरिति सर्वेषां