________________
सरः]
द्रव्यसाधनम्
37
सर्वार्थसिद्धिः एकस्यानेकस्वभावत्वायोगात् । तदभ्युपगमे जैनमतावतारात् । अनेकधर्मत्वे त्वस्मन्मतसिद्धेः। एकस्मिन्नेव रूपादिस्वभावभेदकल्पनेति चेन्न; सर्वत्रासिद्धस्य कल्पनायोगात् । क्वचिसिद्धौ द्रव्यवादसिद्धेश्च । एतेन भेदोपलम्भाभावादभेदसिद्धिरिति प्रत्युक्तं । विपरिवर्तस्यैव सुवचत्वात् ।
आनन्ददायिनी यान्वयव्यवस्थासंभवात् । अतो द्वित्रिचतुरित्यत्र न समासान्तप्रसङ्गः । तदुक्तं तत्वमात्रपञ्चिकायां---
वाय्वादिव्यवहरो भवति स्पर्शादिलक्षणैरेव ।
द्वित्रिस्वभावभाग्भिः एकस्माद्धस्वतादीव ॥ इति । अत्र मते धर्माणामेव तथाव्यवहारसाधनत्वं ; धम्र्येवेति पक्षे तु न वस्तुनानास्वभावत्वं ; किन्तु ग्राहकभेदेन तथा व्यवहार इति भेदः ।।
स्वभावभेदा इत्यत्र स्वश्चासौ भावश्चेति स्वभावः--स्वरूपमित्यर्थः ; उताहो स्वस्य भावः स्वभावः इति षष्ठीसमासः इति विकल्पं मनसि निधाय प्रथमं दूषयात–एकस्येति । चतुष्ट्वे हि वस्तुस्वभावानां परस्पराभेदे चतुष्ट्रव्याघातः भेदेऽत्वेकत्वव्याघात इति भावः । द्वितीयं दूषयति-अनेकेति । अगत्या धर्मिपक्षमवलम्बते—एकस्मिन्नेवेति । सर्वत्रासिद्धस्योत -क्वचित्सिद्धस्यैवारोपादिति भावः । ननु प्रत्येकं सिद्धानामेकस्मिन्नारोपे को विरोध इति चेत् ; न ; एकैकात्मकत्वेन सिद्धानां भेदाद्विरोधग्रहेणारोपासंभवादविरोधार्थ क्वचित्समावेशे वक्तव्ये तदसिद्धिरिति भावः । ननु रूपरूपिणोः भेदग्राहकप्रमाणाभावादभेदसिद्धौ रूपादीनामाश्रयासिद्धिरित्यत आह—एतेनेति-प्रत्यभिज्ञानुपपत्तिरूपस्य पूर्वोक्तसाधकस्य सत्त्वेनेत्यर्थः । दूषणान्तरमाह-विपरिवर्तस्येति । अभेदानुपलम्भेन भेदस्यैव सिद्धरित्यर्थः । अभेदानुपलम्भमेव दर्श