________________
40
सव्याख्यसर्वाथीसद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः इति वदद्भिः। अतः सहोपलम्भनियमाद्धर्मधर्मिभेद एव सिध्यति। किंच रूपस्पर्शयोः सहधीनियमस्त्वयाऽपि दुस्साधः। अतस्तयोरयुगपदुपलम्भादभेदासिद्धावेकस्य 1* प्रत्यभिज्ञाविषयस्य ततोऽन्यत्वं प्रस्पष्टं । यत्तदन्यत्र युष्माभिरुक्तम्
आनन्ददायिनी भेदघाटितत्वात्तन्नियमहेतुर्विरुद्ध इत्याह-अत इति । किंच सहोपलम्भनियमेन धर्मधर्मिभेदनिरसनेऽपि रूपस्पर्शयोस्तन्नियामकाभावादसिद्धेः दृष्टमेव स्पृशामीति प्रत्यभिज्ञानुपपादनादेतावान् प्रयासो व्यर्थइत्याह-किंचेति । भवद्भिरेवानुगतो धर्मी बुद्धर्बाध्यबाधकभावनिरूपणस्थले बुद्धितत्वमालायामुक्तः; स इदानीं त्यज्यत इति पूर्वापरविरोध. श्वेत्याह यत्तदन्यत्रेति अनुपप्लवेति-इदमित्थं सिद्धिटीकायां व्याख्यातंशुक्तिकारजतयोर्बाध्यबाधकभावः कथं नियम्यते ? नहि विरोधेन ; वैपरीत्यस्यापि प्रसङ्गात् । नच निषेधात्मकतया ; विघेरपि क्वचिद्बाधकत्वात् निषेधस्यापि बाध्यत्वात् । न च प्रामाणिकत्वाप्रामाणिकत्वाभ्यां ; प्रामाणिकस्याप दुर्बलस्य शत्रोर्बाध्यत्वात् । किंच बाघार्थ बाध्यविषय
भावप्रकाशः गुणेभ्योऽर्थान्तरभूतद्रव्यानुपलम्भेन गुणगुणिवादो निरस्तः । प्रयोगःयदुपलब्धिलक्षणप्राप्तं सत् यत्र नोपलभ्यते तत्तत्र नास्ति ; यथा कचिप्रदेशविशेषे घटादिरुपलभ्यमानः । नोपलभ्यते च गुणेभ्योऽर्थान्तरभूतस्तत्रैव देशे गुणी' इति स्वभावानुपलब्धिः प्रतिषेधहेतुरुक्तः; स एव नोपलभ्यते च ज्ञानादर्थान्तरभूतस्तत्रैव देशेऽर्थ इति विधया वैभाषिकाभ्युपगतस्य ज्ञानादर्थान्तरभूतस्यार्थस्य प्रतिषेधहेतुः प्रसजेत् इति ॥ * प्रत्यभिज्ञाविषयस्येत्यादि-एतेनोदाहृतस्वभावानुपलब्धिहेतोरसिद्धिर्दर्शिता ।