________________
३८]
चतुर्थोऽध्यायः ।
१६५
यथोचितं स्वजनलोकः । एष धर्मः सज्जनानां भगवानत्र ज्ञातं परिहरनकुशलानुबन्धिमातापित्रादिशोकमिति ।
तथा ।
गुरुनिवेदनम् ॥ ३५ ॥ इति ॥ तथा इति विध्यन्तरसमुच्चयार्थः। गुरुनिवेदनं । सर्वात्मना गुरोः प्रव्राजकस्थात्मसमर्पणं कार्यमिति ॥ इत्थं प्रव्राज्यगतं विधिमभिधाय प्रव्राजकगतमाह ।
___अनुग्रहधियाभ्युपगमः ॥ ३६ ॥ इति ॥ गुरुणनुग्रहधिया सम्यक्त्वादिगुणारोपणबुड्याभ्यपगमः प्रव्राजनीयस्त्वम् एवंरूपः कार्यो न पुनः स्वपरिषत्पूर- 10 णादिबुद्धयेति ॥
तथा ।
निमित्तपरीक्षा ॥ ३७॥ इति ॥ निमित्तानां भाविकार्यसूचकानां शकुनादौनां परीक्षा निश्चयनं कार्य निमित्तशुद्धेः प्रधानविधित्वादिति ॥ 15
तथा ।
उचितकालापेक्षणम् ॥ ३८ ॥ इति ॥ उचितस्य प्रव्रज्यादानयोग्यस्य कालस्य विशिष्टतिथिनक्षत्रादियोगरूपस्य गणिविद्यानामप्रकीर्णकनिरूपितस्थापेक्षणमादरणमिति । यतस्तत्र पयते ।
20