________________
१६४
धर्मबिन्दुः सटौकः ।
[सू० ३४
तत्र चासौ तत्प्रतिबन्धादेवमालोचयति यथा न भवति नियमादेष गुरुजनो नौरुगौषधादिमन्तरेण औषधादिभावे च संशयः कदाचिस्यात्कदाचिन्नेति कालसहश्चायम् । ततः संस्थाप्य तथा विध
चित्रवचनोपन्यासेन तं तदौषधादिनिमित्तं स्वदृत्तिहेतोश्च त्यजन् 5 सन्नसौ साधुरेव भवति । एष हि त्यागोऽत्याग एव यः
पुनरत्यागः स परमार्थतम्त्याग एव । यतः फलमत्र प्रधानम् । धौराश्चैतद्दर्शिन एव भवन्ति । तत औषधसंपादनेन तं जौवयेदपौति संभवात्मत्पुरुषोचितमेतत् । एवं शुक्लपाक्षिको महा
पुरुषः संसारकान्तारपतितो मातापित्रादिसङ्गतो धर्मप्रतिबद्धो 10 विहरेत् । तेषां च तत्र नियमविनाशकोऽप्राप्तसम्यक्त्वबोजादिना
पुरुषमात्रेण साधयितुमशक्यः संभवत्मन्यत्वाद्यौषधो दर्शनमोहाद्युदयस्लक्षणः कर्मातङ्कः स्यात् । तत्र स शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवं समालोचयति यदुत विनश्यन्त्येतान्यवश्यं
सम्यक्त्वाद्यौषधविरहेण तत्संपादने विभाषा कालमहानि चेमानि 15 व्यवहारतः। ततो यावद्हवासं निर्वाहादिचिन्तया तथा
तथा संस्थाप्य तेषां सम्यवाद्यौषधनिमित्तं स्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभौष्टसंयमसिद्ध्या साधुरेव । एष त्यागोऽत्यागस्तत्त्वभावनातोऽत्याग एव च त्यागो मिथ्या
भावनातः। तत्त्वफलमत्र प्रधानं बुधानां यतो धौरा एतद्दर्शिन 20 श्रासनभव्याः। एवं च तानि सम्यत्वाद्यौषधसंपादनेन
जौवयेदात्यन्तिकमपुनर्मरणेनामरणावन्ध्यबीजयोगेन संभवात् सुपुरुषोचितमेतत् । यतो दुःप्रतिकारौ नियमान्मातापितरौ शेषश्च