________________
३४]
चतुर्थोऽध्यायः।
१६२
अमायोऽपि हि भावेन माय्येव तु भवेत्कचित् ।
पश्येत्वपरयोर्यत्र सानुबन्धं हितोदयम् ॥ १ ॥ इति । अथेत्थमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानौते तदा किं विधेयमित्याशंक्याह ।
lo
यथाशक्ति सौविहित्यापादनम् ॥ ३३॥ इति ॥ यथाशक्रि यस्य यावती शक्तिः शतसहस्रादिप्रमाणनिर्वाहहेतद्रव्यादिसमर्पणरूपा तया सौविहित्यस्य सौस्यस्य
आपादनं विधानं येन प्रव्रजितेऽपि तस्मिन्नसौ न सौदति तस्य निर्वाहोपायस्य करणमिति भावः । एवं कृते कृतज्ञता कता भवति । करुणा च मार्गप्रभावनाबौजम् । ततस्तेनानुज्ञातः 10 प्रव्रजेदिति ॥
अथैवमपि न तं मोक्रुमसावुत्महते तदा । ___ ग्लानौषधादिज्ञातात्यागः॥ ३४ ॥
इति ॥ ग्लानस्य तथाविधव्याधिबाधावणेन ग्लानिमागतस्य गुर्वादेर्लोकस्य । औषधादिज्ञातादौषधस्य प्रादिशब्दात्व- 15 निर्वाहस्य च ग्रहः तस्य गवेषणमपि औषधादि इत्युच्यते । ततः ग्लानौषधाद्येव ज्ञातं दृष्टान्तः । तस्मात्त्यागः कार्यों गुर्वादेरिति । ददमुकं भवति । यथा कश्चित्कुलपुत्रकः कथंचिदपारं कान्तारं गतो मातापित्रादिसमेतस्तत्प्रतिबद्धश्च तत्र व्रजेत् । तस्य च गुर्वादेस्तत्र व्रजतो नियमघातौ वेद्यौषधादिरहितपुरुष- 20 माचासाध्यस्तथाविधौषधादिप्रयोगयोग्यश्च महानातः स्यात् ।