SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ २८] चतुर्थोऽध्यायः। अतथ्यान्यपि तथ्यानि दर्शयन्यतिकौशलाः । चित्रे निनोन्नतानौव चित्रकर्मविदो जनाः ॥ २ ॥ परीक्षा च सम्यक्त्वज्ञानचारित्रपरिणतिविषया तैस्तैरुपायैविधेया। परीक्षाकालच प्रायतः षण्मासाः। तथाविधपात्रापेक्षया त्वल्पो बहुश्च स्यात् । तथा सामायिकसूत्र- 5 मकृतोपधानस्यापि कण्ठतो वितरणीयम् । अन्यदपि सूत्र पात्रतामपेक्ष्याध्यापयितव्यम् । तथा । गुरुजनाद्यनुज्ञा ॥ २६ ॥ इति ॥ गुरुजनो मातापित्रादिलक्षणः । श्रादि- 10 शब्दाभगिनीभार्या दिशेषसंबन्धिलोकपरिग्रहः। तस्यानुज्ञा प्रव्रज त्वम् इत्यनुमतिरूपा। विधिरित्यनुवर्तते। यदा पुनरसौ तत्तदपायतोऽनुज्ञापितोऽपि न मुञ्चति तदा यदिधेयं तदाह । तथा तथोपधायोगः ॥ २७ ॥ इति ॥ तथा तथा तेन तेन प्रकारेण सर्वथा परैरनुप- 15 लक्ष्यमाणेनोपधायोगो मायायाः प्रयोजनम् । कथमित्याह । दुःस्वप्नादिकथनम् ॥ २८॥ इति ॥ दुःस्वप्नस्य खरोष्ट्रमहिषाद्यारोहणादिदर्शनरूपस्य । अादिशब्दान्मादमण्डलादिविपरौतालोकनादिग्रहः। तस्य कथनं 20 गुर्वादिनिवेदनमिति । II
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy