________________
१५०
धर्मबिन्दुः सटौकः ।
[सू० २२
कार्षापणाधनस्यापि तथाविधभाग्योदयात्प्रतिदिनं शतगणसहस्रगुणादिकार्षापणोपार्जनेन कोटिव्यहारारोपणोचितत्वलक्षणायाम् । श्रूयन्ते च केचित्पूर्व तुच्छव्यवहारा अपि तथाविधभाग्यवशेन स्वल्पेनैव कालेन कोटिव्यवहारमारूढाः । 5 इत्येतद्विश्वो विश्वनामा प्रवादौ प्राहेति । अयं च मनाक् सम्राण्मतमनुसरतौति ॥
अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुः ॥ २२॥
इति ॥ अन्यतरस्य कस्यचिद्गणस्य वैकल्येऽपि किं पुन10 रवैकल्य इत्यपिशब्दार्थः । गुणबाहुल्यमेव गुणभूयस्वमेव ।
मा पूर्वसूत्रमूचिता योग्यता तत्त्वतः परमार्थवृत्त्या प्रवर्त्तते श्रतो न पादगुणहीनादिचिन्ता कार्या । इत्येतत्सुरगुरुलहस्पतिरुवाचेति ॥
सर्वमुपपन्नमिति सिद्धसेनः ॥ २३॥
15 इति ॥ ममस्तेष्वपि धर्मार्थकाममोक्षव्यवहारेषु पुरुषपराक्रममाध्येषु विषये यद्यद् उपपन्नं घटमानं निमित्ततया बुद्धिमद्भिरुत्प्रेक्ष्यते तत्सर्वमखिलम् । मा इत्यनुवर्तते । उपपन्नत्वस्य योग्यताया अभिनत्वात् । इति मिद्धसेनो नौतिकारः शास्त्ररूद्विषो जगाद ॥