________________
२१]
चतुर्थोऽध्यायः ।
१५७
सोऽप्येवमेव भवतीति वसुः ॥ १६ ॥
इति ॥ मोऽपि गुणोत्कर्षः किं पुनर्गुणमात्राद्गुणान्तरमिद्धिरित्यपिशब्दार्थः । एवमेव पूर्वगणानामुत्तरगुणारम्भकत्वेन भवति निष्पद्यते निर्बोजस्य कस्यचित्कार्यस्य कदाचिदण्यभावात् । इत्येतहसुः समयप्रसिद्धो राजविशेषो । निगदति । एष च मनाग व्यासमतानुसारौति ॥
अयुक्त कार्षापणधनस्य तदन्यविटपनेऽपि कोटिव्यवहारारोपणमिति क्षौरकदम्बकः ॥ २० ॥
इति ॥ अयुक्त मघटमानकम् कार्षापणाधनस्यातिजघन्यरूपकविशेषसर्वस्वस्य व्यवहारिणो लोकस्य तदन्यविटपने- 10 ऽपि तस्मात्कार्षापणादन्येषां कार्षापणादीनां विटपन उपाजने किं पुनस्तदन्याविटपन इत्यपिशब्दार्थः । कोटिव्यवहारारोपणं कोटिप्रमाणानां दौनारादीनां व्यवहारे पात्मन अारोपणमिति । यतोऽतिबद्धकालमाध्योऽयं यवहारः न च तावन्तं कालं व्यवहारिणां जीवितं संभाव्यते। एवं 15 च चौरकदम्बनारदयोर्न कश्चिन्मतभेदो यदि परं वचनकृत एवेति ॥
न दोषो योग्यतायामिति विश्वः ॥ २१ ॥
इति ॥ न नैव दोषोऽघटनालक्षणः कश्चिद्योग्यतायां