________________
१५६
धर्मविन्दुः सटीकः।
[सू० १६
कुत इत्याह ।
संभवादेव श्रेयवसिद्धेः ॥ १६ ॥ इति ॥ संभवादेव योग्यत्वादेव' न पुनर्गुणमात्रादेव केवलात्मभवविकलात् । श्रेयस्वमिद्धेः सर्वप्रयोजनानां श्रेयो5 भावनिष्पत्तेः । इदमुकं भवति । गुणमात्रे सत्यपि यावदद्यापि प्रव्राज्यादि वो विवक्षितं कार्य प्रति योग्यता न लभते न तावत्तत्तेनारब्धमपि सिध्यति अनधिकारित्वात्तस्य अनधिकारिणश्च सर्वत्र कार्य प्रतिषिद्धत्वात् ।
अतो योग्यतेव सर्वकार्याणां श्रेयोभावसंपादिकेति । 10 यत्किंचिदेतदिति नारदः ॥ १७॥
इति ॥ यत्किंचिन्न किंचिदित्यर्थः । एतत्सम्राडकम् इति नारदो वति ॥
कुत इत्याह ।
गुणमाचागुणान्तरभावेऽप्युत्कर्षायोगात् ॥ १८ ॥ 15 इति ॥ गुणमात्राद्योग्यतामात्ररूपात् गुणान्तरस्य तथाविधस्य भावेऽप्युत्कर्षायोगादुल्लष्टानां गुणानामसंभवात् । अन्यथा योग्यतामाचम्य प्रायेण सर्वप्राणिनां संभवादत्कृष्टगुणप्रसङ्गन न कश्चित्मामान्यगुणः स्यात् । अतो विशिष्टैव योग्यता गुणोत्कर्षमाधिकेति मिद्धमिति ॥ १ C adds न पुनर्गुणत्वादेव । २ B D विवक्षितकार्य ।