SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १५] चतुर्थोऽध्यायः । विरोधः स्यात् । दृश्यते च दरिद्रस्यापि कस्यचिदकस्मादेव राज्यादिविभूतिलाभ इति ॥ अकारणमेतदिति व्यासः ॥ १३ ॥ इति ॥ अकारणमप्रयोजकं निष्फलमित्यर्थः । एतद्वाल्लौकिनिरूपितं वाक्यम् । इत्येतते व्यामः कृष्णद्वैपायनः ॥ 5 कुत इत्याह । गुणमाषासिौ गुणान्तरभावनियमाभावात् ॥ १४ ॥ इति ॥ गुणमात्रस्य स्वाभाविकस्य तुच्छस्थापि गुणस्य प्रथममसिद्धौ सत्यां गुणान्तरस्यान्यस्य गुणविशेषस्य भाव 10 उत्पादो गुणान्तरभावः तम्य नियमादवश्यतयाभावादमत्त्वात् । स्वानुरूपकारणपूर्वको हि कार्यव्यवहारः । यतः पद्यते । नाकारणं भवेत्कार्य नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्कार्यकारणयोः क्वचित् ॥ १॥ नान्यकारणकारणम् इति न नैवान्यस्यात्मव्यतिरिकस्य कारणा- 15 मन्यकारणम् अन्यकारणं कारणं यस्य तत्तथा । पटादेः कारणं सूत्रपिण्डादि घटादेः कारणं न भवतीति भावः ॥ नैतदेवमिति सम्राट् ॥ १५ ॥ इति ॥ नैतदेवमिति प्राम्वत् । सम्राट राजर्षिविशेषः प्राह ॥ 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy