________________
चतुर्थोऽध्यायः।
C
दारुणो विपाकः मरणस्यैव इति गम्यते सर्वाभावकारित्वात्तस्येति। प्रागपि इति प्रव्रज्याप्रतिपत्तिपूर्वकाल एवेति । स्थिर इति प्रारब्धकार्यस्थापान्तराल एव न परित्यागकारौ। ममुपसंपन्नः इति सम् इति सम्यग्वत्त्या सर्वथात्मसमर्पणरूपया उपमंपन्नः सामीप्यमागत इति ॥
इत्थं प्रव्रज्याईमभिधाय प्रव्राजकमाह ।
गुरुपदार्ह स्त्वित्थंभूत एव । विधिप्रतिपन्नप्रव्रज्यः समुपासितगुरुकुलः अस्खलितशीलः सम्यगधौतागमः तत एव विमलतरबोधात्तत्ववेदी उपशान्तः प्रवचनवत्सलः सत्त्वहितरतः पादेयः अनु. वर्तकः गम्भीरः अविषादी उपशमलब्ध्यादिसंपन्द्र प्रवचनार्थवक्ता स्वगुर्वतुज्ञातगुरुपदश्चेति ॥७॥
इति ॥ गुरुपदार्हः प्रव्राजकपदयोग्यः। तुः पूर्वस्माविशेषणार्थः । इत्थंभूत एव प्रव्रज्यागुणयुक्त एव मन् न पुनरन्यादृशोऽपि तस्य स्वयं निर्गुणत्वेन प्रव्राज्यबीजगुण- 15 बीज निक्षेपकरणायोगात्। किमित्याह विधिप्रतिपनप्रव्रज्यः वक्ष्यमाणक्रमाधिगतदीक्षः। ममुपामितगुरुकुलः विधिवदाराधितगुरुपरिवारभावः। अवलितशीलः प्रवज्याप्रतिपत्तिप्रमत्येवाखण्डितव्रतः । सम्यगधौतागमः सूत्रार्थोभयज्ञान
१ B C omit.