SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १५० धर्म बिन्दुः सटीकः । [सू०६क्षणं मरणं दारुणो विपाक इत्यवगतसंसारनैर्गुण्यः। तत एव तहिरक्तः प्रतनुकषायोऽल्पहास्यादिः कृतज्ञो विनौतः प्रागपि राजामान्यपौरजनबहमतोऽद्रोहकारी कल्याणाङ्गः श्राद्धः स्थिरः 5 समुपसंपन्नश्च ॥६॥ इति ॥ एतत्सर्वं सुगमम् । परम् अथ इत्यानन्तर्यार्थः । प्रव्रजनं पापेभ्यः प्रकर्षण शुद्धचरणयोगेषु व्रजनं गमनं प्रव्रज्या तस्या अहो योग्यः प्रव्रज्या: जौवः । कीदृश इत्याह । आर्यदेशोत्पन्नः मगधाद्यर्धषड्विंशतिमण्डलमध्य10 लब्धजन्मा। तथा विशिष्टजातिकुलान्वितः विशुद्धवैवाह्य चतुर्वर्णान्तर्गतमावपिन पक्षरूपजातिकुलमंपन्नः। तथा चौणप्रायकर्ममनः चौणप्राय उत्मन्नप्रायः कर्ममलो जानावरणमोहनौयादिरूपो यस्य स तथा। तथा तत एव विमलबुद्धिः यत एव चौणप्रायकर्ममलः तत एव हेतो15 विमलबुद्धिनिर्मलीमसमतिः प्रतिक्षणं मरणम् इति समयप्रसिद्धावधिमरणापेक्षयेति । पद्यते च । यामेव रात्रि प्रथमामुपैति गर्भ वमत्यै नरवीर लोकः । ततः प्रमृत्यस्खलितप्रयाण: स प्रत्यहं मृत्युममोपमेति ॥ १ ॥ __ नरवीर इति व्यासेन युधिष्ठिरस्य संबोधनमिति । 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy