________________
चतर्थोऽध्यायः ।
व्याख्यातस्ततीयोऽध्यायः । माम्प्रतं चतुर्थ श्रारभ्यते । तस्य चेदमादिसूत्रम् ।
एवं विधिसमायुक्तः सेवमानो गृहाश्रमम् ।
चारित्रमोहनौयेन मुच्यते पापकर्मणा ॥१॥ इति ॥ एवमुक्ररूपेण विधिना सामान्यतो विशेषतश्च । ग्रहस्थधर्मलक्षणेन समायुक्तः संपन्नः मेवमानोऽनुशीलयन् ग्रहाश्रमं ग्रहवासम् । किमित्याह । चारित्रमोहनौयेन प्रतीतरूपेण मुच्यते परित्यज्यते पापकर्मणा पापकृत्यात्मकेन ॥ एतदपि कथमित्याह ।
सदाचाराधनायोगादावशुद्धेर्नियोगतः। 10 उपायसंप्ररत्तेश्च सम्यक्चारिचरागतः ॥२॥
इति ॥ मन् प्रकलङ्कितो य प्राजाराधनायोगो यतिधर्माभ्यामामहेनादौ श्रावकधर्मोऽभ्यसनीय इत्येवंलक्षणो जिनोपदेशसंबन्धः तस्मात् । यका भावशुद्धिर्मनोनिर्मलता तस्या नियोगतोऽवश्यतया। तथोपायसंप्रवृत्तेश्वोपायेन शुद्ध- 15