________________
१४६
धर्मबिन्दुः सटौकः।
[सू ६६]
नामाराधनायोग्यो जात एवेत्यपिशब्दार्थः । जायते भवति । यस्मात्कारणात् आराधनायोग्यः परिपालनोचितः अविकलाल्पगुणराधनाबलप्रलौनबहुगुणस्लाभबाधककर्मकलकत्वेन नहुणलाभमामीभावात् तस्मात्कारणत् श्रादौ प्रथमत 5 एवायमनन्तरप्रोको ग्रहस्थधर्मो मतः सुधियां संमत इति । पुरुषविशेषापेक्षोऽयं न्यायः अन्यथा तथाविधाध्यवसायसामर्थ्यादत एवाबलोभूतचारित्रमोहाना स्थलभद्रादीनामेतकममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात् ॥
इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ विशेषतो ग्रहस्थधर्मविधिस्तृतीयोऽध्यायः समाप्तः ॥ ३ ॥