SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १३६ धर्मबिन्दुः सटौकः। [सू० ७१. तथा । विभवोचितं विधिना क्षेचदानम् ॥ ७१ ॥ इति ॥ विभवोचितं स्खविभवानुमारेण विधिनानन्तरमेव निर्देक्ष्यमाणेन क्षेचेभ्यो निर्देष्यमाणेभ्य एव दानमनपानौषध5 वस्त्रपाबाधुचितवस्तुवितरणम् ॥ विधि क्षेत्रं च स्वयमेव निर्दिशन्नाह । सत्कारादिर्विधिनिःसङ्गता च ॥ ७२ ॥ इति ॥ सत्करणं सत्कारोऽभ्युत्थानासनप्रदानवन्दनरूपो विनयः, म आदिर्यस्य देशकालाराधनविशुद्धश्रद्धाविष्करण10 दानक्रमानुक्रमादेः कुशलानुष्ठानविशेषस्य म तथा। किमित्याह । विधिर्वर्तते। निःमङ्गता ऐहिकपारलौकिकफलाभिलापविकलतया सकललेगलेशाकलङ्कितमुक्तिमात्राभिसंधिता। चकारः समुच्चये ॥ वीतरागधर्मसाधवः क्षेचम् ॥ ७३ ॥ 15 इति॥ वीतरागस्य जिनस्य धर्म उक्रनिरुतस्तत्प्रधानाः माधवो वीतरागधर्ममाधवः । क्षेत्रं दाना पात्रमिति । तस्य च विशेषशक्षणमिदम् । शान्तो दान्तो मुको जितेन्द्रियः सत्यवागभयदाता । प्रोक्रस्त्रिदण्डविरतो विधिग्रहीता भवति पाचम् ॥ १ ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy