________________
टतीयोऽध्यायः।
१३५
अत्यष्णात्मतादनादच्छिद्रामितवासमः । अपरप्रेव्यभावाच्च शेषमिच्छन्पतत्यधः ॥ १ ॥ इति ।
तथा।
संतोषामृतवतानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ २ ॥ इति। B
तथा।
धर्मे धनबुद्धिः ॥ ६ ॥ इति ॥ धर्म श्रुतचारित्रात्मके मकलाभिलषिताविकालसिद्धिमूले धनबुद्धिर्मतिमतां धर्म एव धनमिति परिणामरूपा निरन्तरं निवेशनौयेति ॥
10
तथा ।
शासनोन्नतिकरणम् ॥ ७ ॥
इति ॥ शासनस्य निखिलहेयोपादेयभावाविर्भावनभास्करकल्पस्य जिननिरूपितवचनरूपस्य उन्नतिरुच्चैर्भावः तस्याः करणं सम्यग् न्यायव्यवहरणयथोचितजनविनयकरणदीना- 15 नाथाभ्युद्धरणसुविहितयतिपुरस्करणपरिशद्धशीलपालनजिनभवनविधापनयाचास्नानादिनानाविधोत्सवसंपादनादिभिरूपायैः। तस्थातिमहागुणत्वादिति । पद्यते च ।
कर्तव्या चोन्नतिः सत्यां शक्काविह नियोगतः । अवन्ध्यं कारणं ह्येषा तीर्थक्वन्नामकर्मणः ॥ १ ॥ इति। 20