________________
१३०
धर्मबिन्दः सटीकः।
[सू० ५२
ततः।
भावतः स्तवपाठः ॥५२॥ इति ॥ दरिद्रनिधिलाभादिसंतोषोपमानोपमेयाद्भावतो भावात्संतोषलक्षणात्स्तवानां गम्भौराभिधेयानां सतगुणोद्भावनाप्रधानानां नमस्कारस्तवलक्षणानां पाठः समुचितेन ध्वनिना समुच्चारणम ॥ ततः ।
चैत्यसाधुवन्दनम् ॥ ५३॥ इति ॥ चैत्यानामहदिम्बानामन्येषामपि भावात्प्रभृतीना10 माधूनां च व्याख्यानाद्यर्थमागतानां वन्दनीयानां वन्दनमभिष्टवनं
प्रणिपातदण्डकादिपाठक्रमेण द्वादशावर्तवन्दनादिना च प्रसिद्धरूपेणैवेति ॥
ततः।
गरुसमौपे प्रत्याख्यानाभिव्यक्तिः ॥ ५४॥ 15 इति ॥ तथाविधशुद्धममाचारमाधसमोपे प्रागेव ग्रहादौ
ग्टहीतस्य प्रत्याख्यानस्याभिव्यक्तिर्गुरोः माक्षिभावसंपादनाय प्रत्युच्चारणम् ॥
ततः।
जिनवचनश्रवणे नियोगः ॥ ५५ ॥ 20 इति ॥ संप्राप्तसम्यग्दर्शनादिः प्रतिदिनं माधुजनात्मामाचारौं
टणोतौति श्रावक इत्यन्वर्थसंपादनाय जिनवचनश्रवणे नियोगो नियमः कार्य इति ॥