________________
५६]
टतीयोऽध्यायः।
ततः ।
सम्यक् तदर्थालोचनम् ॥ ५६ ॥ इति ॥ सम्यक् संदेहविपर्ययानध्यवसायपरिहारेणा तदर्थस्य वचनाभिधेयस्य पुनः पुनर्विमर्शनं । अन्यथा “वृथाश्रुतमचिन्तितम्" इति वचनान्न किंचिच्छ्रवणगुण: स्यादिति ॥
ततः ।
भागमैकपरता ॥ ५० ॥ इति ॥ श्रागमो जिनसिद्धान्तः स एवैको न पुनरन्यः कश्चित्सर्वक्रियासु परः प्रधानो यस्य म तथा तस्य भाव बागमैकपरता । सर्वक्रियाखागममेवैकं पुरस्कृत्य प्रवृत्तिरिति भाव इति ॥
ततः।
श्रुतशक्यपालनम् ॥ ५८॥ इति ॥ श्रुतस्यागमादुपलब्धस्य शक्यस्यानुष्ठातं पार्यमाणस्य पालनमनुशीलनं मामायिकपौषधादेरिति ॥
15
तथा।
अशक्ये भावप्रतिबन्धः ॥ ५ ॥ इति ॥ अशक्ये पालयितुमपार्यमाणे तथाविधशक्तिमामय्यभावात्माधुधर्माभ्यासादौ भावेनान्तःकरणेन प्रतिबन्ध