________________
३५]
ढतीयोऽध्यायः।
१२१
मानं कंचन नरं व्रतभङ्गभयादाहात्मशकुवन् यदा काशितादिशब्दश्रावणखकीयरूपमंदर्शनद्वारेण तमाकारयति तदा व्रतमापेक्षत्वाच्छन्दानुपातरूपानुपातावतिचाराविति । तथा पुगलस्य शर्करादेनियमितक्षेत्राबहिर्वर्तिनो जनस्य बोधमाय तदभिमुखं प्रक्षेपः पुगलप्रक्षेपः । देशावकाशिकव्रतं हि ग्यते । मा भूगमनागमना दिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण । म च स्वयंकृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः । प्रत्युत गुण: स्वयं गमन ईर्यापथविशुद्धः। परस्य पुनरनिपुणत्वात्तदशद्धिरिति । इह चाद्यदयमव्युत्पन्नबुद्धित्वेन महमाकारादिना वा। अन्यचयं तु व्याजपरस्यातिचारता थातौति । 10 दहाः वृद्धाः। दिग्बतमंक्षेपकरणमा व्रतादिसंक्षेपकरणस्याप्युपलक्षणां द्रष्टव्यं तेषामपि संक्षेपस्यावश्यं कर्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणम्य भिन्नव्रतत्वेन द्वादशवतानौति संख्याविरोधः स्यादिति । अत्र केचिदाहुः । दिग्वतसंक्षेप एव देशावकाशिकं तदतिचाराणां दिग्नतानुमारितयैवोपलम्भात् । 16 अत्रोच्यते । यथोपलक्षणतया शेषव्रतसंक्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षपातयैव तदतिचारा अपि तदनुमारिणो द्रष्टव्याः । अथवा प्राणातिपातादिसंक्षेपकरणेषु बन्धादय एवातिचारा घटन्ते । दिग्वतसंक्षेपे तु संक्षिप्तत्वात् क्षेत्रस्य शब्दानुपातादयोऽपि स्थरिति भेदेन दर्शिताः । न 20 च मर्वेषु व्रतभेदेषु विशेषतोऽतिचारा दर्शनीया रात्रिभोजनादिवतभेदेषु तेषामदर्शितत्वादिति ॥