________________
२८]
टतीयोऽध्यायः ।
१०३
इति ॥ स्तेनप्रयोगय तदाहतादानं च विरुद्धराज्यातिकमश्च होनाधिकमानोन्मानानि च प्रतिरूपकव्यवहारश्चेति समामः । तत्र स्तेनाचौराः, तेषां प्रयोगो व्यापारणं " हरत यूयं" इत्यनुज्ञा प्रदानम् । १। तथा तैराहतस्य कुङ्कुमादिद्रव्यम्यादानं संग्रहः । २। विरुद्धः स्वकीयराज्ञः प्रतिपन्थी तस्य राज्यं कटकं देशो वा तत्रातिक्रमः स्वराजभूमिमौमातिलङ्घनेन क्रमणं प्रवेशो विरुद्धराज्यातिक्रमः । ३ । होने स्वभावापेक्षया न्यनेऽधिके वा मानोन्माने कुडवादितुलारूपे भवतो होनाधिकमानोन्माने । ४। शुद्धेन ब्रौह्या - दिना वृतादिना वा प्रतिरूपकं सदृशं पलज्यादि वमादि 10 वा द्रव्यं. तेन व्यवहारो विक्रयरूपः, म प्रतिरूपकव्यवहार इति । ५ ॥
दह स्तेनप्रयोगो यद्यपि “चौर्य न करोमि न कारयामि' इत्येवं प्रतिपन्नव्रतस्य भङ्ग एव, तथापि “किमधुना यूयं नियंपारास्तिष्ठथ । यदि वो भनकादि नास्ति, तदाहं 15 ददामि। भवदानौतमोषस्य च यदि विक्रायको न विद्यते तदाहं विक्रव्यामि" इत्येवंविधवचनेचौरान व्यापारयतः स्वकल्पनया तयापारणं परिहरतो व्रतसापेक्षस्यामावतिचारः। तथा स्तेनाहतं काणक्रयेण लोभदोषाच्छन्न ग्टलंचौरो भवति। यदाह।
20 चौरचौरापको मन्त्रौ भेदज्ञः काणकक्रयो। अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः ॥ १॥