________________
टतीयोऽध्यायः ।
यदि पुनर्न करोति कोऽपि विनयं तदा त मर्माणि मुक्का लतया दवरकेण वा मकृविर्वा ताडयेदिति ॥
कविच्छदोऽपि तथैव । नवरं निरपेक्षो हस्तपादकर्णनामिकादि यनिर्दयं छिनत्ति । मापेक्षः पुनर्यगण्डं वारा छिन्द्यादा दहेवेति ॥
तथातिमारो नारोपयितव्यः पूर्वमेव हि यावद्विपदादिवाहनेन जौविका मा श्रावकेण मोक्रव्या, अन्यथामौ न भवेत्, तदा विपदोऽयं भारं खयमुत्क्षिपत्यवतारयति च तं वाह्येत । चतुष्पदस्य तु यथोचितभारादसौ किञ्चिदूनः क्रियते हलशकटादिषु पुनरुचितवेलायाममौ मुच्यत इति ॥ 10
तथा भक्रपानव्यवच्छेदो न कस्यापि कर्तवः । तीक्ष्णबुभुक्षो ह्यन्यथा म्रियते । सोऽप्यर्थानादिभेदो बन्धवट्रष्टव्यः । नवरं सापेक्षो रोगचिकित्मार्थं स्यात् । अपराधकारिणि च वाचैवं वदेद्यदद्य ते न दास्यते भोजनादि शान्तिनिमित्तं चोपवामं कारयेत् । किं बहुना । यथा मूलगणम्य प्राणाति- 15 पातविरमणस्या तिचारो न भवति तथा मर्वत्र यतनया यतितव्यमिति ॥
ननु प्राणतिपात एव अतिना प्रत्याख्यातः : ततो बन्धादिकरणेऽपि न दोषः, विर तेरखण्डितत्वात् । अथ बन्धादयो ऽपि प्रत्याख्याताः ; तदा तत्करणे व्रतभङ्ग एव, 20 विरतिखण्डनात् । किं च। बन्धादौनां प्रत्याख्येयत्वेऽपि विवक्षितव्रतेयत्ता विभौर्यते, प्रतिव्रतं पञ्चानामविचारव्रता