________________
२१]
टतीयोऽध्यायः ।
५
देश विभागे प्राक्प्रतिपन दिग्वतस्य योजनशतादिपरिमाणरूपम्यावकाशो गोचरो यस्य प्रतिदिनं प्रत्याख्येयतया
तत्तथा ॥
पोषं धत्ते पोषधोऽष्टमौचदर्दण्यादिः पर्वदिवसः। उपेति महोपावृत्तदोषस्य मतो गणैराहारपरिहारादिरूपैर्वास उप-5 वामः । यथोकम् ।
उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह ।
उपवासः म विज्ञेयो न शरीरविशेषणम् ॥ १ ॥ नतः पोषधेषूपवासः ॥
अतिथयो वीतरागधर्मस्थाः साधवः माध्व्यः श्रावकाः 10 श्राविकाच ; तेषां न्यायागतकल्पनौयादिविशेषणानामनपानादौनां संगतवृत्त्या विभजनं वितरणामतिथिसंविभागः । तथा चोमास्वातिवाचकविरचितश्रावकप्रज्ञप्तिसूत्रम् । यथा । अतिथिमविभागो नाम । अतिथयः माधवः साध्यः श्रावकाः श्राविकाच ; एतेषु ग्रहमुपागतेषु भक्त्याभ्युत्थानासनदानपाद- 15 प्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति, अन्नपानवस्त्रौषधालयादिप्रदानेन मंविभागः कार्य इति ॥
• ततः सामायिकं च देशावकाशं व पोषधोपवासश्चातिथिमंविभागश्चेति ममामः । चत्वारोति चतु:संख्यानि। किमित्याह "शिक्षापदानि"। शिक्षा माधुधर्माभ्यामः, तस्य पदानि 20 स्थानानि भवन्ति ॥