________________
६४
धर्म विन्दुः सटीकः।
[मू० २०
सूर्यापलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकाः सप्त । तथो
मधश्च द्वे । एवं दाम दिक्ष विषये गमनपरिमाणकरणलक्षणं व्रतं नियमो दिखतम् । भुज्यते सकृदेवासेव्यते
यदशनादि तभोगः । पुनः पुनर्भुज्यते वमनवनितादि यत्त5 दपभोगः । भोगचोपभोगश्च भोगोपभोगौ ; तयोर्मानं परिमाणां भोगोपभोगमानम् । अर्थः प्रयोजनं धर्मखजनेन्द्रियगतशुद्धोपकारस्वरूपं ; तस्मा अर्थाय दण्डः मावद्यानुष्ठानरूपः ; तत्प्रतिषेधादनर्थदण्डः । स च चतुर्धा, अपध्यानप्रमादाचरितहिंस्र प्रदानपापकर्मापदेशभेदात् । तस्य विरतिः। ततो दिव्रतं 10 च भोगोपभोगमानं चानर्थदण्डविरतिश्चेति समासः । बौणि त्रिसंख्यानि गुणव्रतानि गुणायोपकाराय व्रतानि भवन्ति, गुणवतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधायभावादिति ॥
तथा ।
सामायिकदेशावकाशिकपोषधोपवासातिथिसं-- 15 विभागाश्चत्वारि शिक्षापदानि ॥२१॥
इति ॥ समानां मोक्षमाधनं प्रति मदृशसामर्थ्यानां सम्यग्दर्शनज्ञानचारित्राणामायो लाभः, समस्य वा रागद्वेषान्तरालवर्तितया मध्यस्थस्य मत प्रायः सम्यग्दर्शनादिलक्षण: समायः, सानो वा सर्वजीवमैत्रीभावलक्षणस्यायः समायः । 20 सर्वत्र स्वार्थिके कप्रत्ययोपादामात्मामायिकम् । मावद्ययोग
परिहारनिरवद्ययोगानुष्ठानरूपो जौवपरिणामः ॥