________________
पटमोऽध्यायः ।
तया प्रवृत्तिरिति संबध्यते। सा च भगवति केवलिनि समस्तौति सिद्धं यदुत न तस्य क्वचिदौत्सुक्यमिति ।
मनु भवेऽपवर्ग चैकान्ततो निःस्महस्य कथं विहितेतरयोरर्थयोरस्थ प्रवृत्तिनिवृत्तौ स्यातामिति । उच्यते । द्रव्यत एव पूर्वसंस्कारवशात्कुलालचक्रधमवस्याताम् ॥
एतद्भावयवाह।
भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वच प्रधानो व्यवहारः ॥५२॥
इति ॥ भावसारे मानसविकल्पपुरःसरे। हिशब्दः पूर्वोकभावनार्थः । प्रवृत्त्यप्रवृत्ती सर्वत्र विहितेतरयोरर्थयो- 10 विषये । किमित्याह प्रधानो भावरूपो व्यवहारो लोकाचाररूपः । इदमुक्तं भवति । यैव मनःप्रणिधानपूर्विका क्वचिदर्थ प्रवृत्तिनिवृत्तिर्वा तामेव तात्त्विकौं तत्त्ववेदिनो वदन्ति न पुनरन्याम्। यतोऽनाभोगादिभिः परिपूर्णश्रामण्यक्रियावन्तोऽप्यभव्यादयो न तात्त्विकश्रामण्यक्रियावत्तया समये व्यवहताः। 16 तथा संमूर्छनजमस्यादयः सप्तमनरकप्रथिवीप्रायोग्यायुबन्धनिमित्तमहारम्भादिपापस्थानवर्तिनोऽपि तथाविधभावविकलत्वाब तदायुर्बन्धं प्रति प्रत्यलोभवन्ति । एवं सयोगकेवलिनोऽपि सर्वच निःस्पहमनसः पूर्वसंस्कारादिहितेतरयोरर्थयोः प्रवृत्तिमिहत्तौ कुर्वन्तोऽपि न भावतस्तदन्तो व्यवहियन्त इति ॥ 20
B omits this sūtra.