________________
२९६
धर्मविन्दा सटीकः।
[सू० ५३
अवैवाभ्युच्चयमाह।
प्रतीतिसिचश्चायं सद्योगसचेतसाम् ॥ ५३॥ इति ॥ प्रतौतिसिद्धः स्वानुभवसंवेदितः । चः समुच्चये । अयं पूर्वोकार्थः। सद्योगेन शुद्धध्यानलक्षणेन ये सचेतसः सचित्ता5 स्तेषाम् । संपन्नध्यानरूपामलमानसा महामुनयः स्वयमेवा
मुमर्थं प्रतिपद्यन्ते न पुनरत्र परोपदेशमाकांक्षन्त इति ॥
अथ प्रस्तुतमाह।
सुस्वास्थ्यं च परमानन्दः ॥५४॥ इति ॥ निरुत्सुकप्रवृत्तिसाध्यस्खास्याद् यदधिकं खास्यं 10 तमुखास्यमुच्यते तदेव परमानन्दो मोक्षसुखलक्षण: ॥
कुत इत्याह ।
तदन्यनिरपेक्षत्वात् ॥५५॥ इति ॥ तस्मादात्मनः सकाशादन्यस्तदन्यः स्वव्यतिरिक्तस्तनिरपेक्षत्वात् ॥ 16 नवन्यापेक्षा किं दुःखरूपा यदेवमुच्यत इत्याह ।
अपेक्षाया दुःखरूपत्वात् ॥५६॥ इति ॥ प्रतीतार्थमेव ॥ एतदेव भावयति ।