________________
पटमोऽध्यायः ।
तदनादित्वेन तथाभावसिद्धेः । ३६ ॥ इति ॥ तस्य कर्मणः कृतकले नाप्यनादित्वेन द्वितीयाध्यायप्रपञ्चितयुल्या तथाभावस्य तद्वत एव तद्द्वहरूपस्य सिद्धेर्निष्पत्तेरिति ।
ननु
ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।
गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥ इति वचनप्रामाण्यात्कथं नाकर्मणोऽपि जन्मादिग्रह इत्याशंक्याह ॥
सर्वविप्रमुक्तस्य तु तथास्वभावत्वानिष्ठितार्थ- 10 त्वान्न तहणे निमित्तम् ॥ ३७॥
इति ॥ सर्वेण कर्मणा विप्रमुक्तस्य पुनस्तथास्वभावत्वात्तत्प्रकाररूपत्वात् । किमित्याह निष्ठितार्थत्वात् निष्पन्ननिःशेषप्रयोजनवाद्धेतोः न नैव तद्हणे जन्मादिग्रहणे निमित्तं हेतुः समस्तौति । अयमभिप्रायः। यो हि सर्वैः कर्मभिः 16 सर्वथापि विप्रमुनो भवति न तस्य जन्मादिग्रहणे किंचिनिमित्तं समस्ति निष्ठितार्थत्वेन जन्मादिग्राहकस्वभावाभावात् । यच तौर्यनिकारलक्षणो हेतुः कैश्चित्परिकल्प्यते सोऽप्यनुपपन्नः कषायविकारजन्यत्वात्तस्येति ॥
एवं च सति यत्मिद्धं तदाह ।
20
नाजन्मनो जरा ॥ ३८॥