________________
२५४
धर्मबिन्दा सटीकः । [सू० ११रागद्देषमोहा हिर दोषास्तथा तथात्मदूषणात्
॥११॥ इति ॥ रागद्वेषमोहाः वक्ष्यमाणलक्षणाः। हिः स्फुटम् । दोषा भावसंनिपातरूपाः । अत्र हेतुमाह। तथा तथा तेन 5 तेन प्रकारेणाभिष्वङ्गकरणादिनात्मनो जीवस्य दूषणादिकारप्रापणात् ॥ तत्त्वभेदपर्यायैाख्या इति न्यायाट्रागादौनेव तत्त्वत श्राह ।
अविषयेऽभिष्वङ्गकरणाद्रागः ॥१२॥ इति ॥ अविषये प्रकृतिविशरारुतया मतिमतामभिष्वङ्गा10 नई स्त्यादौ वस्तुन्यभिष्वङ्गकरणाञ्चित्तप्रतिबन्धसंपादनात् । किमित्याह रागः दोषः ॥ तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद्देषः ॥१३॥
इति ॥ तत्रैव क्वचिदर्थेऽभिष्वङ्गे सत्यग्निज्वालाकल्यस्य सम्यक्वादिगुणसर्वस्वदाहकतया मात्मर्यस्य परसंपत्त्यसहिष्णुभाव15 लक्षणस्यापादनादिधानाद्वेषो दोषः ॥
हेयेतरभावाधिगमप्रतिबन्धविधानान्मोहः ॥ १४ ॥
इति ॥ दह निश्चयनयेन हेयानां मिथ्यात्वादौनामितरेषां चोपादेयानां सम्यग्दर्शनादौनां भावानां व्यवहारतस्तु विष
१ B reads रागद्वेषमोहादिदोषमोहादिदोषा', C R read रागद्वेषमोहादिदोषा।