________________
अटमोऽध्यायः ।
२५५
कण्टकादीनां सक्चन्दनादौनां च अधिगमस्थावबोधस्य प्रतिबन्धविधानात्स्वलनकरणान्मोहो दोषः ॥
अर्थतेषां भावसंनिपातत्वं समर्थयबाह ।
सत्स्वेतेषु न यथावस्थितं सुखं स्वधातुवैषम्यात्
॥१५॥ 5 इति ॥ सत्खेतेषु रागादिषु न नैव यथावस्थितं पारमार्थिकं सुखं जीवस्य । अत्र हेतुः स्वधातुवैषम्यात् । दधति धारयन्ति जीवस्वरूपमिति धातवः सम्यग्दर्शनादयो गुणाः। स्वस्थात्मनो धातवः तेषां वैषम्याद्यथावस्थितवस्तुस्वरूपपरिहारेणान्यथारूपतया भवनं तस्मात्। यथा हि वातादि- 10 दोषोपघाताद्धातुषु रसामृगादिषु वैषम्यापनेषु न देहिनो यथावस्थितं कामभोगजं मनःसमाधिजं वा शर्म किंचन लभन्ते तथा मौ संसारिणः सत्त्वा रागादिदोषवशात्सम्यग्दर्शनादिषु मलौमसरूपतां प्राप्तेषु न रागद्वेषमोहोपसमजं शर्म समासादयन्तौति ॥
अमुमेवार्थं व्यतिरेकत आह ।
15
क्षौणेषु न दुःखं निमित्ताभावात् ॥ १६ ॥ इति ॥ चौणेषु रागादिषु न दुःखं भावसंनिपातजं समुत्पद्यते। कुत इति चेदुच्यते निमित्ताभावात् निबन्धनविरहादिति ॥
20