________________
२७]
सप्तमोऽध्यायः।
पुनरपि कौदृगित्याह ।
अतिविशिष्टाह्लादादिमत् ॥ २४॥ इति ॥ अतिविशिष्टा अत्युत्कर्षभाजो य श्रासादादय आहादकुशलानुबन्धमहाकल्याणपूजाकरणादयः सुकृतविशेषास्तधुनम् ॥
ततः ।
तच्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेण ॥२५॥
इति ॥ सुगममेव नवरं पूर्वेण इति पूर्वग्रन्थेन । सच विशिष्टे देशे विशिष्ट एव काले स्फोते महाकुले इत्यादि- 10 रूप इति ॥ विशेषमाह।
विशिष्टतरं तु सर्वम् ॥ २६ ॥ इति ॥ प्रागुकादतिविशिष्टं पुनः सर्वमत्यन्तनिरवद्यजन्मसुन्दररूपादि ॥ कुत एतदित्याह ।
क्लिष्टकर्मविगमात् ॥ २७॥ इति ॥ दौर्गत्यदौर्भाग्यदुःकुलत्वादिपर्यायवेद्यकर्मविरहात् ॥ अयमपि ।
15
16