________________
१३]
सप्तमोऽध्यायः।
10
महाकुल इक्ष्वाकादौ । निष्कलङ्केऽसदाचारकलङ्कपङ्कविकले । अन्वयेन पिनपितामहादिपुरुषपरंपरया अत एवोदय उगटे । केनेत्याह सदाचारेण देवगुरुखजनादिसमुचितप्रतिपत्तिलक्षणेन । श्राख्यायिका कथा तत्प्रतिबद्धवा ये पुरुषास्तथाविधान्यासाधारणाचरणगुणेन तेयुके संबद्धे । किमित्याह । अनेकमनोरथापूरकं खजनपरजनपरिवारादिमनोभिलषितपूरणकारि। अत्यन्तनिरवद्यं शुभलगशुभग्रहावलोकनादिविशिष्टगुणसमन्वितेनेकान्ततो निखिलदोषविकलं जन्म प्रादुर्भाव इति ॥ तत्र च यद्भवति तदाह ।
सुन्दरं रूपमालयो लक्षणानां रहितमामयेन युक्तं प्रज्ञया संगतं कलाकलापेन ॥ १३॥
इति ॥ सुन्दरं शुभसंस्थानवत्तया रूपमाकारः। श्रालयो लक्षणानां चक्रवज्रस्वस्तिकमौनकलशकमलादौनाम् । रहितं परित्यक्रमामयेन ज्वरातिसारभगन्दरादिना रोगेण । युक्तं 15 संगतं प्रज्ञया बहुबहुविधादिविशेषणग्राहिकया वस्तुबोधशक्त्या । संगतं संबद्धं कलानां लिपिशिक्षादौनां शकुनरुतपर्यवसानानां कलापेन समुदायेन ॥
तथा' ।
गुणपक्षपातोऽसदाचारभौरुता कल्याणमित्र- 20 योगः सत्कथाश्रवणं मार्गानुगो बोधः सर्वां
[According to the Surat edition and R this forms part of the following Sūtra.)