SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ २२६ धर्मबिन्दुः सटीकः। [सू० १२ तत्तनानाविधसमुचिताचारसमाचरणचातुर्यगुणेन सुखहेतुत्वं संतोषनिमित्तभावः । कुशलः परिणामसुन्दरोऽनुबन्धः सर्वकार्याणाम् । महाकल्याणकेषु जिनजन्ममहाव्रतप्रतिपत्त्या दिषु पूजायाः स्नात्रपुष्पारोपणधूपवासप्रदानादिना प्रकारेण करणं 5 निर्मापणम् । तीर्थकराणां निजप्रभावावर्जितजगत्त्रयजन्तुमानसानामतमेघासाराकारसरसदेशनाविधिनिहतभव्यभविकजनमनःसंतापानां पुरुषरत्नविशेषाणां सेवा वन्दननमनपर्युपासनपूजनादिनाराधना। सतः पारमार्थिकस्य धर्मस्य श्रुत चारित्रलक्षणस्य श्रुतावाकर्णने रतिः स्वर्गप्रभवतुम्बुरुप्रभति10 गान्धर्विकारब्धपञ्चमस्वरगौतश्रवणरतेरपि सकाशादधिकसंतोष लक्षण। सदा सर्वकालं सुखित्वं बाह्यशयनासनवस्त्रालंकारादिजनितशरीरसुखयुक्रत्वम् । तथा । तच्यतावपि विशिष्टे देशे विशिष्ट एव काले 15 स्फोते महाकुले निष्कलङ्केऽन्वयेनोदने सदाचारे णाख्यायिकापुरुषयुक्तऽनेकमनोरथापूरकमत्यन्तनिरवद्यं जन्म ॥ १२॥ इति ॥ तच्यतावपि देवलोकादवतारे किं पुनस्तत्र सुखमेवेत्यपिशब्दार्थः । विशिष्टे देशे मगधादौ । विशिष्ट ५0 एव काले सुषमदुःषमादौ । स्फोते परिवारादिस्फीतिमति [According to the Surat edition and R this forms part of the following Sūtra.]
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy