________________
सप्तमोऽध्यायः।
२३५
तिनिपुणाः किंकराः प्रगल्भो नाव्यविधिश्चतुरोदारा भोगाः सदा चित्तालादोऽनेकसुखहेतुत्वं कुशलानुबन्धो महाकल्याणपूजाकरणं तीर्थकरसेवा सद्धर्मश्रुतौ रतिः सदा सुखित्वम् ॥ ११॥
इति ॥ तत्र देवस्थान उत्तमा प्रकृष्टा रूपसंपच्छरौरसंस्थानलक्षणा । सत्यः सुन्दराः याः स्थितिप्रभावसुखद्युतिलेण्याः ताभिर्योगः समागमः । तत्र स्थितिः पल्योपमसागरोपमप्रमाणयुष्कलक्षणा प्रभावो निग्रहानुग्रहसामर्थं सुखं चित्तसमाधिलक्षणं द्युतिः शरीराभरणादिप्रभा लेण्यास्तेजोलेण्यादिका 10 इति। विशद्धानि खविषयाविपर्यस्तज्ञानजननेन निर्मलानौन्द्रियाण्यवधिश्च यस्य स तथा तद्भावस्तत्त्वम् । प्रशष्टानि प्रकर्षवन्ति भोगसाधनानि भोगोपकरणानि। तान्येव दर्शयति । दिव्यो निजप्रभामण्डलविडम्बिताशेषतेजस्विचक्रः विमाननिवहो विमानसंघातः । मनोहराणि मनःप्रमोदप्रदान्यशोकचम्पक- 15 पुन्नागनागप्रतिवनस्पतिसमाकुलान्यद्यानानि वनानि । रम्या रन्तुं योग्या जलाशया वापौहदसरोवरलक्षणाः। कान्ताः कान्तिभाजोऽपसरसो देव्यः । अतिनिपुणाः परिशुद्धविनयविधिविधायिनः किंकराः प्रतीतरूपा एव । प्रगल्भः प्रौढो नाश्यविधिस्तीर्थकरादिचरितप्रतिबद्धवाभिनयलक्षणः । चतरोदारा- 20 चतरा झटित्येवेन्द्रियचित्ताक्षेपदक्षा उदाराश्चोत्तमा भोगाः शब्दादयः श्रोत्रादौन्द्रियविषयाः । सदा सततं चित्तातादो मनःप्रसादरूपः। अनेकेषां स्वव्यतिरिकानां देवादीनां