________________
२३४
धर्मविन्दुः सटौकः।
[सू.
-
उपलवहास उपलवस्य रागद्वेषादिदोषोद्रेकलक्षणस्य ह्रासः परिहाणिः ॥ तथा।
भावैश्वर्यद्धिः ॥७॥ । इति ॥ भावैश्वर्यस्यौदार्यदाक्षिण्यपापजुगुमादिगणभावलक्षणस्य वृद्धिरुत्कर्षः ॥ तथा ।
जनप्रियत्वम् ॥८॥ इति ॥ सर्वलोकचित्तावादकत्वम् ॥ 10 परंपराफलं तु सुगतिजन्मोत्तमस्थानपरंपरानिर्वाणावाप्तिः॥६॥
इति ॥ यत्मुगतिजन्म यच्चोत्तमस्थानपरंपरया करणभूतया निर्वाणं तयोरवाप्तिः पुनः परंपराफलमिति ।
अथ स्वयमेवैतत्सूत्रं भावयति । 15 सुगतिविशिष्टदेवस्थानम् ॥ १० ॥
इति ॥ सुगतिः किमुच्यत इत्याह विशिष्टदेवस्थान सौधर्मादिकल्पलक्षणम् ॥
तत्रोत्तमा रूपसंपत् सस्थितिप्रभावसुखद्युतिलेण्यायोगो विशुद्धेन्द्रियावधित्वं प्रकृष्टानि भोग20 साधनानि दिव्यो विमाननिवहो मनोहराण्य
द्यानानि रम्या जलाशयाः कान्ता अप्सरसो