________________
सप्तमोऽध्यायः ।
२३३
भावप्रसङ्गेनानादर एव स्थादिति । इदं पुनरिति यत्पुनासतः फलं तदिदं वक्ष्यमाणम् ।
यथा । विशिष्टं देवसौख्यं यच्छिवसौख्यं च यत्परम् । धर्मकल्पद्रमस्येदं फलमाहुर्मनीषिणः ॥३॥ 5 इति ॥ विशिष्टं सौधर्मादिदेवलोकसंबन्धितयाशेषदेवसौख्यातिशायि देवसौख्यं सुरशर्म यदिहैव वक्ष्यमाणं शिवसौख्यं मुक्रिशर्म। चः समुच्चये। यत् इति प्राम्वत् । परं प्रकृष्टम् । तत्किमित्याह धर्मकल्पद्रुमस्य भावधर्मकल्पपादपस्य इदं प्रतौतरूपतया प्रथमानं फलं साध्यम् आऊः उतवन्तो 10 मनौषिणः सुधर्मस्वामिप्रभृतयो महामुनय इति ।
इत्युक्तो धर्मः। सांप्रतमस्य फलमनुवर्णयिष्यामः ॥ ४॥ इति ॥ सुगममेव ॥
विविधं फलमनन्तरपरंपराभेदात् ॥५॥ 16 इति ॥ विविधं विरूपं फलं धर्मस्य । कथमित्याह अनन्तरपरंपराभेदात् श्रानन्तर्येण परंपरया च ॥
तवानन्तरफलमुपलवहासः ॥६॥ इति ॥ तत्र तयोर्मध्येऽनन्तरफलं दर्श्यते । तद्यथा ।
१ B C D R °कमहर्षयः ।