________________
सप्तमोऽध्यायः।
व्याख्यातः षष्ठोऽध्यायः । अथ सप्तमो व्याख्यायते । तस्य चेदमादिसूत्रम् ।
फलप्रधान प्रारम्भ इति सल्लोकनौतितः।
मस्येदं व्यासतः पुनरुच्यते ॥१॥ । इति ॥ फलं प्रधानं यस्येति स तथा प्रारम्भो धर्मादिगोचरा प्रवृत्तिः । इत्यस्याः सलोकनौतितः शिष्टजनसमाचारात् । किमित्याह संक्षेपात् परिमितरूपतया उक्रमस्य धर्मस्य इदं फलं धनदो धनार्थिनां प्रोक इति श्लोकेन
शास्त्रादौ । व्यासतः विस्तरेण पुनरुच्यते इदमिदानौमिति। 10 ननु यदि व्यासतः पुनरिदानौं वक्ष्यते तत्किमिति संक्षेपात्पूर्व फस्लमुक्कमित्याशंक्याह । प्रवृत्त्यङ्गमदः श्रेष्ठं सत्त्वानां प्रायशश्च यत् ।
आदौ सर्वच तद्युक्तमभिधातुमिदं पुनः ॥२॥
इति ॥ प्रवृत्त्यङ्गं प्रवृत्तिकारणमदः फलं श्रेष्ठं ज्यायः 16 सत्त्वानां फलार्थिनां प्राणिविशेषाणं प्रायशः प्रायेण । चकारो वनव्यान्तरसमुच्चये। यद्यस्मादादौ प्रथमं सर्वत्र सर्वकार्येषु तत्तस्माद्युकमुचितमभिधातुं भणितुं संक्षेपादादाविति। श्रादावेव विस्तरेण फलभणने शास्त्रार्थस्यातिव्यवधानेन श्रोतस्तत्र नौरस