________________
.]
षष्ठोऽध्यायः।
२२६
___ इति ॥ सद्भावस्थ शुद्धपरिणामरूपस्य या वृद्धिरुत्कर्षस्तस्याः फलोत्कर्षसाधनादत्कृष्टफलरूपमोचनिष्पादनात् । वृद्धिप्राप्तो हि शुद्धो भावः सम्यग्दर्शनादिर्मोक्षं साधयति न त मिथ्यात्वादिः कदाचनापि । श्रतः परमफलसाधकत्वेन मिथ्यात्वादिभ्योऽसौ गरौयानिति ॥
एतदपि कुत इत्याह । उपलवविगमेन तथावभासनादिति ॥ ७ ॥
इति ॥ उपलवविगमेन रागद्वेषाद्यान्तरोपद्रवापगमेन । तथावभासनात्तथा असमञ्जसस्थाप्रवृत्तियोग्यतयावभासना. प्रतीतेः भावयतेः कर्तुः इति इतरस्यामिवेतरः इति निदर्शनमात्रम् इति स्थितम् । इतिः वाक्यपरिसमाप्तौ ॥
अथोपसंहरनाह । एवंविधयतेः प्रायो भावशुद्धेर्महात्मनः । विनिवृत्ताग्रहस्योच्चैर्मोक्षतुल्यो भवोऽपि हि॥८॥
दति ॥ एवंविधस्य स्वावस्थोचितानुष्ठानारम्भिो यतेः 16 माधोः प्रायो बाहुल्येन । भावशुद्धेः सकाशात् । महात्मन उकरूपस्य विनिवृत्ताग्रहस्योपरतशरीरादिगोचरमू दोषस्य उच्चैरत्यर्थम् मोक्षतुल्यो निर्वाणकल्पः । भवोऽपि मोक्षस्तावन्मोक्ष एवेत्यपिशब्दार्थः । हिः स्फुटम् । यदवाचि ।
निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । 20 विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥१॥रति॥
१ B and R omit इति ।