________________
98]
पठोऽध्यायः।
तथा चरिचवतोऽपि जन्तोस्तथाविधवौर्यहासात्परिणाममन्दतायां तत्तौव्रताधानार्थमुपदेशः प्रवर्तत इति ॥ अथोपदेशनिष्फलत्वमभिधातुमाह ।
माध्यस्थ्ये तदैफल्यमेव ॥ ७१ ॥ इति ॥ माध्यस्थे मध्यस्थभावेऽप्रवृत्तिप्रवृत्त्यवसानयोर्मध्य- । भागरूपे प्रवृत्तौ सत्या मित्यर्थः । तस्योपदेशस्य वैफल्यं विफलभावः ॥
कुत इत्याह ।
स्वयं भ्रमणसिद्धेः ॥ ७२ ॥ इति ॥ स्वयमात्मनेव भ्रमणसिद्धेश्चक्रधमतुल्यप्रवृत्तिसिद्धेः ॥ 10 एतदेव भावयबाह।
भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमजसप्रसत्तावितरस्यामिवेतरः ॥७३॥
इति ॥ भावयतिः परमार्थसाधुः। हिर्यस्मात् । तथा तत्प्रकारश्चारित्रवृद्धिहेतरित्यर्थः। कुशलः परिशद्ध प्राशय- 15 श्चित्तमस्य तद्भावस्तत्त्वं तस्मात् । अशकोऽसमर्थोऽसमञ्जसप्रवृत्तावनाचारसेवारूपायाम् । दृष्टान्तमाह इतरस्थामिव भावतः समन्जसप्रवृत्ताविव इतरः अभावयतिर्विडम्बकप्रायः ॥ अत्रैव किंचिदिशेषमाह।
इति निदर्शनमात्रम् ॥ ७४ ॥ 20