SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पठोऽध्यायः। एतदपि कथमित्याह । यथाशक्ति प्रत्तेः॥५५॥ इति ॥ यथाशक्ति यथासामर्थं सर्वकार्येषु प्रवृत्तः ॥ [दयमपि कथम् । उच्यते । सद्भावप्रतिबन्धात्॥५६॥ इति ॥ सद्भावे शक्यतया सत्यरूपे कृत्येऽर्थ चित्तस्य प्रतिबन्धात्प्रतिबद्धत्वात् ॥ विपर्यये बाधकमाह । 5 इतरथार्तध्यानापत्तिः॥५७॥ इति ॥ इतरथानुचितारम्भे । पार्तध्यानस्य प्रतीतरूपस्य । 10 आपत्तिः प्रसङ्गः स्थात् ॥ कथमित्याह । अकालौत्सुक्यस्य तत्त्वतस्तत्त्वात् ॥५८॥ इति॥ अकाले चिकौर्षितकार्याप्रस्तावे यदौत्सुक्यं तत्कालोचितकार्यान्तरपरिहारेण तौबचिकौर्षालक्षणं तस्य । तत्त्वतः 15 परमार्थतः तत्त्वादार्तध्यानत्वात् । व्यवहारतस्तु धर्मध्यानत्वमपौति तत्त्वग्रहणमिति ॥ नन्वनुत्सुकः प्रवृत्तिकालमपि कथं लस्यत इत्याशयाह । नेदं प्रवृत्तिकालसाधनम् ॥५६ ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy