SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दुः सटीकः । [सू० ५१एवं च द्र्व्यस्तवोऽपि भगवदुपदेशपालनारूप एवेति भावः । अथ भगवति चित्तावस्थिते फलमाह । हृदि स्थिते च भगवति क्लिष्टकर्मविगमः ॥५१॥ इति ॥ प्रतौतार्थमेव । परं क्लिष्टकर्म तदुच्यते यत्संसार5 वासैकनिबन्धनमिति ॥ एतदपि कुत इत्याह । जलानलवदनयोर्विरोधात्॥५२॥ इति ॥ वारिवैश्वानरयोरिवानयोर्भगवञ्चित्तावस्थानक्लिष्टकर्मणविरोधात्परस्परबाधनात् ॥ 10 पुनरपि प्रकृतोपसंहारमाह । इत्युचितानुष्ठानमेव सर्वच प्रधानम् ॥५३॥ इति । एतत्प्राग्वत् ॥ कथमेतदित्याह। 16 प्रायोऽतिचारासंभवात् ॥५४॥ इति ॥ यो हि खोचितं कर्म कर्तुमारभते + तस्य तत्रातिचारः संभवति । प्रायोग्रहणेन चेदमाह। तथाविधानाभोगदोषानिकाचितक्लिष्टधर्मोदयादा कदाचित्कस्यचित्तथाविधसन्मार्गयायिनः पथिकस्येव कण्टकज्वरदिग्मोहसमानोऽतिचारः स्थादपौति ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy