________________
४४]
घछोऽध्यायः।
निगमयबाह। इति मुमुक्ष्ोः सर्वत्र भावनायामेव यत्नःश्रेयान् ॥४०॥
इति ॥ इत्येवमुक्तयुक्तः । मुमुक्षोर्यतेः । सर्वत्र कृत्ये भावनायामेवोकलक्षणायाम् । यत्न श्रादरः । श्रेयान् प्रशस्यः ।।
कुत इत्याह । तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेः॥४१॥
इति ॥ तद्भावे भावनाभावे निसर्गत एव स्वभावादेव सर्वथा सर्वैः प्रकारैः दोषाणं रागादौनामुपरतिसिद्धेः ॥
अथ भावनाया एव हेतमाह । वचनोपयोगपूर्वा विहितप्रवृत्तिोनिरस्याः ॥४२॥ 10
इति ॥ वचनोपयोगः शास्त्र इदमित्थं चेत्यं चोक्तं इत्यालोचनारूपः पूर्वो मूलं यस्याः सा तथा । केत्याह विहिते प्रत्युपेक्षणदौ प्रवृत्तिर्विहितप्रवृत्तिः। योनिरुत्पत्तिस्थानम् । अस्था भावनाया भावनाज्ञानस्येत्यर्थः ॥ कुत इत्याह ।
महागुणत्वादचनोपयोगस्य ॥४३॥ इति । अत्यन्तोपकारित्वादचनोपयोगस्योक्तरूपस्य । एतदेव भावयवाह।
तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भ स्मरणम् ॥ ४४॥
20
15