________________
२१६
धर्मबिन्दुः सटीका।
[मू० ३८
इदमेवोपचिन्वन्नाह ।
अत एव भावनादृष्टज्ञाताविपर्ययायोगः ॥३८॥
इति ॥ अत एव भावनामूलत्वादेव हिताहितपत्तिनिवृत्त्योः । भावनादृष्टज्ञाताद्भावनया दृष्टं ज्ञातं च वस्तु प्राप्य । 5 विपर्ययायोगो विपर्यासाप्रवृत्तिलक्षणो जायते। यतो न मतिविपर्यासमन्तरेण पुंसो हितेष्वप्रवृत्तिरहितेषु च प्रवृत्तिः स्यात् । न चासौ भावनाज्ञाने समस्तौति ।
एतदपि कथं सिद्धमित्याह ।
तदन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्त10 माना दृश्यन्त एवान्यरक्षादाविति ॥ ३९ ॥
इति । तदन्तो भावनाज्ञानवन्तः प्रमातारः । हिर्यस्मात् । दृष्टापाययोगेऽपि प्रत्यक्षोपलभ्यमानमरणाद्यपायप्राप्तौ किं पुनस्तदप्राप्तावित्यपिशब्दार्थः । अदृष्टापायेभ्यो नरकादिगति
प्रापणीयेभ्यः । निवर्तमानाः सुवर्णमययवभक्षिक्रौञ्चजीवा15 कथकाचर्मशिरोवेष्टनाविष्टसुवर्णकारारब्धमारणमहामुनिमेतार्य
वाद्यापि महसत्त्वाः केचन दृश्यन्ते एव । अन्यरचादावन्यस्य खव्यतिरिक्रस्य रक्षायां मरणादित्राणरूपायाम् श्रादिशब्दादुपकारे च मार्गश्रद्धानाधारोपरूपे। इतिशब्दो वाक्यपरिसमाप्तौ ॥