________________
३७]
षष्ठोऽध्यायः ।
२१५
10
भावनया भावनाज्ञानेन दृष्टं सामान्येन ज्ञातं च विशेषेण भावनादृष्टज्ञातं वस्तु ज्ञातमवबुद्धं भवति । नाम इति विदज्जनप्रकटमेतत् । अयमभिप्रायः । यादृशं भावनाज्ञानेन वस्तु दृश्यते ज्ञायते च न तथा श्रुतज्ञानेनेति । कुत इत्याह ।
उपरागमाचत्वात् ॥३५॥ इति ॥ उपराग एव केवल उपरागमात्रं तद्भावस्तत्त्वं तस्मात् । यथा हि' स्फटिकमणेजपाकुसुमादिसन्निधानत उपराग एव न पुनस्तद्भावपरिणतिः संपद्यते एवं श्रुतमय्यां प्रज्ञायामात्मनो बोधमात्रमेव बहिरङ्ग म त्वन्तःपरिणतिरिति । 10 एतदपि कुत इत्याह ।
दृष्टवदपायेभ्योऽनिवृत्तेः॥३६॥ इति ॥ यथा भावनाज्ञानेन दृष्टेभ्य उपलक्षणत्वाक्षातेभ्यश्वानर्थेभ्यो निवर्तते एवं श्रुतमयप्रज्ञाप्रवृत्तावण्यपायेभ्योऽनिवृत्तेरनिवर्तनात् ॥
ननु भावनाज्ञानेऽप्यपायेभ्यो निवृत्तिरसंभविनौत्याह । एतन्मूले च हिताहितयोः प्रवृत्तिनिवृत्ती॥ ३७॥
इति ॥ एतन्मले च भावनाज्ञानपूर्विके एव चकारस्यैवार्थत्वात् । हिताहितयोः प्रतीतयोर्यथासंख्यं प्रवृत्तिनिवृत्ती विधिप्रतिषेधरूपे भवतो मतिमतां मान्यज्ञानमूले इति। 20
15
१ B C तथा हि।