________________
२१४
धर्मबिन्दुः सटीकः।
[सू० ३३
इति ॥ एतस्या भावनायाः स्थैर्या स्थिरभावात् । हिः स्फुटम्। कुशलानां सकलकल्याणाचरणानां स्थर्यस्योपपत्तेर्घटनात् ॥
दूयमपि कुत इत्याह ।
10
5 भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वात् ॥३३॥
इति ॥ दूह बौणि ज्ञानाणि श्रुतज्ञानं चिन्ताज्ञानं भावनाशानं चेति । तल्लक्षणं चेदम् ।
वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ १ ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुनिचिन्तयोपेतम् । उदक व तैलबिन्दुर्विसर्पि चिन्तामयं तस्यात् ॥ २ ॥ ऐदम्पर्यगतं यदिध्यादौ यत्नवत्तथैवोच्चैः ।
एतत्तु भावनामयमशुद्धसद्रनदौप्तिसमम् ॥ ३॥
ततो भावनानुगतस्य भावनानुविद्धस्य ज्ञानस्य बोधविशेषस्य 16 तत्त्वतः पारमार्थिकवृत्त्या ज्ञानत्वादवबोधत्वात् ।
एतदेव व्यतिरेकतः साधयन्नाह ।
न हि श्रतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम ॥३४॥
इति ॥ न नैव । हिर्यस्मात् । श्रुतमय्या प्रथमज्ञानरूपया 20 प्रज्ञया बुड्या कर्टभूतया करणभूतया वा। भावनादृष्टज्ञातं
१ B C भावज्ञानं।
२ Comits.