________________
३२]
षष्ठोऽध्यायः।
२१२
इयमपि ।
असदाचारगर्हणात् ॥ २८॥ इति ॥ असदाचारस्थानुचितानुष्ठानस्य गर्हणात्तदुचितप्रायश्चित्तप्रतिपत्त्या निन्दनात् ॥ अथ प्रस्तुतमेव निगमयन्नाह ।
इत्युचितानुष्ठानमेव सर्वच श्रेयः॥२६॥ इति ॥ इत्येवमनुचितानुष्ठाने नियमादसदभिनिवेशभावात् उचितानुष्ठानमेव सर्वत्र ग्रहस्थधर्मप्रतिपत्तौ यतिधर्मप्रतिपत्तौ च श्रेयः प्रशस्यं वर्तते ॥
कुत इत्याह ।
10
15
भावनासारत्वात्तस्य ॥३०॥ इति ॥ भावना निरुपाधिको जौववासकः परिणामः । ततो भावना सारं प्रधानं यत्र तत्तथा तनावस्तत्त्वं तस्मात् । तस्थोचितानुष्ठानस्य ॥ भावनामेव पुरस्कुर्वन्नाह ।
इयमेव प्रधानं निःश्रेयसाङ्गम् ॥३१॥ इति ॥ यमेव भावना प्रधानं निःश्रेयसाङ्ग निर्वाणहेतुः ॥ दूतदपि कुत इत्याह ।
एतस्थैर्याड्वि कुशलस्थैर्योपपत्तेः॥३२॥