SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ २१२ धर्मबिन्दुः सटीकः । [सू. २४ एतदपि कुत इत्याह । स्वस्वभावोत्कर्षात् ॥२४॥ इति ॥ स्वस्थानौपाधिकत्वेन निजस्य खभावस्थात्मतत्त्वस्य उत्कर्षावृद्धेः । चारित्रिो हि जीवस्य छद्मस्थतया 5 क्वचिदर्थ नाभोगेऽपि गौतमादिमहामुनौनामिव तथाविधात्यन्तिकबाधककर्माभावेन खस्वभावः सम्यग्दर्शनादिरूपो नापकर्षे प्रतिपद्यत इति ॥ अयमपि कुत इत्याह । मार्गानुसारित्वात् ॥२५॥ 10 इति ॥ मार्गस्य सम्यग्दर्शनादेर्मुक्रिपथस्यानुवर्तनात् । तदपि । ___ तथारुचिस्वभावत्वात् ॥ २६ ॥ इति ॥ तथा तत्प्रकारा मार्गानुरूपत्वेन या रुचिः श्रद्धा तद्रूपत्वात् ॥ 16 एतदपि । श्रवणादौ प्रतिपत्तेः॥२७॥ इति ॥ स्वयमेव शास्त्रश्रवणे। श्रादिशब्दादन्येन वा प्रेरणायां कृतायाम् । प्रतिपत्तेः अनाभोगेन विहितं मयेदमसुन्दरमनुष्ठानं इत्यङ्गौकरणात् ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy