________________
२३]
षष्ठोऽध्यायः ।
२११
प्रतिबध्नातौति तयवच्छेदार्थमुक्तं न चासदभिनिवेशवत्तत् इति ॥
नन्वनौचित्येऽप्यनुष्ठानं च भविष्यति मिथ्याभिनिवेशरहितं चेत्याशङ्याह ।
अनुचितप्रतिपत्तौ नियमादसदभिनिवेशो- 5 ऽन्यवानाभोगमाचात् ॥२१॥
इति ॥ अनुचितस्यानुष्ठानस्य प्रतिपत्तावभ्युपगमे । नियमादवण्यंतया। असदभिनिवेश उकरूपः । असदभिनिवेशकार्यत्वादनुचितानुष्ठानस्य । अपवादमाह अन्यत्रानाभोगमात्रात् इति। अन्यत्र विनानाभोग एवापरिज्ञानमेव केवलमभि- 10 निवेशशून्यमनाभोगमात्रं तस्मात् अनाभोगमात्रादनुचितप्रतिपत्तावपि नासदभिनिवेश इति ॥ एवं सति किं सिद्धमित्याह ।
संभवति तद्दतोऽपि चारित्रम् ॥२२॥ इति ॥ संभवति जायते। तदतोऽप्यनाभोगमात्रादनुचित- 15 प्रतिपत्तिमतोऽपि किं पुनस्तदन्यस्येत्यपिशब्दार्थः । चारित्रं सर्वविरतिरूपम् ॥ अत्रैव विशेषमाह।
अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे ॥२३॥ इति॥ अनभिनिवेशवान् निराग्रहः पुनः । तद्युतश्चारित्रयुको 20 जौवोऽनाभोगेऽपि खस्नु निश्चयेन तत्त्वे प्रवचनबाधितार्थे ।